|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.12. अध्यायः 012
Mahabharata - Sabha Parva - Chapter Topics
इन्द्रसभास्थहरिश्चन्द्रचरिते युधिष्ठिरेण पृष्टे तत्कथाप्रसङ्गेन नारदकृता राजसूयप्रशंसा॥ 1॥ युधिष्ठरम्प्रति पाण्डुसन्देशकथनपूर्वकं नारदस्य गमनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
युधिष्ठिर उवाच॥
प्रायशो राजलोकस्ते कथितो वदतां वर।
वैवस्वतसभायां तु यथा वदसि मे प्रभो॥ 2-12-1(11775)
वरुणस्य सभायां तु नागास्ते कथिता विभो।
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा॥ 2-12-2(11776)
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा।
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः॥ 2-12-3(11777)
पितामहसभायां तु कथितास्ते महर्षभः।
सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह॥ 2-12-4(11778)
शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने।
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः॥ 2-12-5(11779)
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने।
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः॥ 2-12-6(11780)
किं कर्म तेनाचरितं तपो वा नियतव्रत।
येनासौ सह शक्रेण स्पर्धदे सुमहायशाः॥ 2-12-7(11781)
पितृलोकगतश्चैव त्वया विप्र पिता मम।
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः॥ 2-12-8(11782)
किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत।
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे॥ 2-12-9(11783)
नारद उवाच। 2-12-10x(1395)
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो।
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः॥ 2-12-10(11784)
` इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः।
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः॥ 2-12-11(11785)
तस्य सत्यवती नाम पत्नी केकयवंशजा।
तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन॥ 2-12-12(11786)
सा च काले महाभागा राजन्मासं प्रविश्य च।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्।
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः'॥ 2-12-13(11787)
स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम्।
तस्य सर्वे महीपालाः शासनावनताः स्थिताः॥ 2-12-14(11788)
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम्।
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर॥ 2-12-15(11789)
स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम्।
आजहार महाराज राजसूयं महाक्रतुम्॥ 2-12-16(11790)
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया।
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्॥ 2-12-17(11791)
`समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान्।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः॥ 2-12-18(11792)
राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे'॥ 2-12-19(11793)
प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः।
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्॥ 2-12-20(11794)
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा।
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्॥ 2-12-21(11795)
भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः।
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्।
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् । 2-12-22(11796)
एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते।
तेभ्यो राजसहस्रेभ्यस्तद्विद्वि भरतर्षभ॥ 2-12-23(11797)
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान्।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप॥ 2-12-24(11798)
ये चान्ये च महीपाला राजसूयं महाक्रतुम्।
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ। 2-12-25(11799)
ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः।
ते तत्सदनम् ताद्य मोन्दते भरतर्षभ॥ 2-12-26(11800)
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम्।
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः॥ 2-12-27(11801)
पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन।
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः॥ 2-12-28(11802)
विज्ञाय मानुषं लोकमायान्तं मां नराधिप।
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्॥ 2-12-29(11803)
समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे।
राजसूयं क्रतुश्रेष्ठमहारस्वेति भारत॥ 2-12-30(11804)
त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै।
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि॥ 2-12-31(11805)
एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम्।
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम्॥ 2-12-32(11806)
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव।
गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम्॥ 2-12-33(11807)
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्।
छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः॥ 2-12-34(11808)
युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम्।
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम्॥ 2-12-35(11809)
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर।
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे॥ 2-12-36(11810)
भव एधस्व मोदस्व धनैस्तर्पय च द्विजान्।
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि।
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति॥ 2-12-37(11811)
वैशम्पायन उवाच। 2-12-38x(1396)
एवमाख्याय पार्थेभ्यो नारदो जनमेजय।
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः॥ 2-12-38(11812)
गते तु नारदे पार्थो भ्रातृभिः सह कौरवः।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः॥ ॥ 2-12-39(11813)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि द्वादशोऽध्यायः॥ 12॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|